പോസ്റ്റുകള്‍

ഒക്‌ടോബർ, 2024 തൊട്ടുള്ള പോസ്റ്റുകൾ കാണിക്കുന്നു

।। ईशस्तुतिः ।।

ईशस्तुतिः देवादिदेवं सुरनाथवन्द्यं श्रीरामपूज्यंगुरुसेवितं त्वाम् । कैलासनाथं शशिनायकं वै गौरीश्वरं मे शिरसा नमामि ।। शैलेशपुत्रीपतिमार्यदेवम् योगेशमार्यं सुरवर्गपूज्यम्। स्कन्दस्य नाथं गणराजसेव्यम् काशीश्वरं मे मनसा स्मरामि ।। श्रीशूलपाणिं मरुतादिमान्यम्  गंगाधरम् वैष्णवपालकम् त्वाम् । सिन्दूरवर्णम् भुजगेन्द्रहारम् नन्दीश्वरं मे शिरसा नमामि ।। श्रीरुद्ररूपम् शिवमार्षदेवम्  दैत्येशनम्यम् मनुवंशवन्द्यम् । ओङ्कारवेद्यम् मुनिधीतमेकम्  भूतेश्वरं मे मनसा स्मरामि ।। पुण्येन सेव्यम् गुणवद्भिरर्च्यम् भस्माङ्गरागं त्रिपुरान्तकम् त्वाम् । भूलोकपालं शितिकण्ठमीशम् सोमेश्वरं मे शिरसा नमामि ।। - अभिजित् ॥ अंशदायिनौ - शुभजायस्पालः, सुश्रुतः॥