।। ईशस्तुतिः ।।
ईशस्तुतिः
देवादिदेवं सुरनाथवन्द्यं
श्रीरामपूज्यंगुरुसेवितं त्वाम् ।
कैलासनाथं शशिनायकं वै
गौरीश्वरं मे शिरसा नमामि ।।
शैलेशपुत्रीपतिमार्यदेवम्
योगेशमार्यं सुरवर्गपूज्यम्।
स्कन्दस्य नाथं गणराजसेव्यम्
काशीश्वरं मे मनसा स्मरामि ।।
श्रीशूलपाणिं मरुतादिमान्यम्
गंगाधरम् वैष्णवपालकम् त्वाम् ।
सिन्दूरवर्णम् भुजगेन्द्रहारम्
नन्दीश्वरं मे शिरसा नमामि ।।
श्रीरुद्ररूपम् शिवमार्षदेवम्
दैत्येशनम्यम् मनुवंशवन्द्यम् ।
ओङ्कारवेद्यम् मुनिधीतमेकम्
भूतेश्वरं मे मनसा स्मरामि ।।
पुण्येन सेव्यम् गुणवद्भिरर्च्यम्
भस्माङ्गरागं त्रिपुरान्तकम् त्वाम् ।
भूलोकपालं शितिकण्ठमीशम्
सोमेश्वरं मे शिरसा नमामि ।।
- अभिजित् ॥
अंशदायिनौ - शुभजायस्पालः, सुश्रुतः॥
അഭിപ്രായങ്ങള്
ഒരു അഭിപ്രായം പോസ്റ്റ് ചെയ്യൂ