പോസ്റ്റുകള്‍

സ്തുതിമാലാ - 3

കാമ രാഗകര ക്ഷീവ നമസ്തേ സര്വരമ്യക കരുണാഹനകർതാരം  നന്ദകം ദേവദേവകം കഥം ശക്നോമി പഠിതും ഗീർവാണം ബൃഹിതം ഗുരും വൃദ്ധാ മൃതാ ചാമൃതാ സാ ഭാഷാധ്യയനീയം സദാ. ശംകരശാന്തിഭാവായ ശിതികണ്ഠായ ശംഭവേ ശാരദാപതിപൂജ്യായ  ശ്ലാഘേ ശ്രേഷ്ടശിവാത്മനേ. നരപാലകപൂജിതം നാരായണം നഗാധിപം. നന്ദനം നാഗശയനം  നമാമി നാഭിപദ്മകം.. വെങ്കടേശം വിശാലാക്ഷം വീര്യവന്തം വിദൂപമം, വൃന്ദാവനവൃഷ്ണീഷ്ടം വന്ദേ വിഗ്നേശവന്ദിതം.

मोरियगानं

 मोरियगानं वन्दति जम्बुदीपो तं चक्कवत्तिं सुसासकं। एकराजं पजापतिं देसधारकमोरियं।। उत्तरपथे हिमवा  दक्खिणा दमिळरक्खितं। पुब्बा मगधरज्जा च गन्धारो च पच्छिमा ।। विराजते सदा तव यसोवुद्धि अरिंदमा! महाराजं महातेजं पणमाम सदा सदा।। मौर्यगानं वन्दति जम्बुद्वीपस्त्वाम् एकराजं सुशासकं। नृपतिं देशधारकं चक्रवर्तिनं मौर्यं।। उत्तथरे हिमवानस्ति दक्षिणे द्रविडरक्षितं। पूर्वे मगधराज्येन गान्धारश्च पश्चिमे।। विराजते सदा तव यशोवृद्धिररिंदम! महाराज महातेजः प्रणमाम त्वां सर्वदा।।

।। ईशस्तुतिः ।।

ईशस्तुतिः देवादिदेवं सुरनाथवन्द्यं श्रीरामपूज्यंगुरुसेवितं त्वाम् । कैलासनाथं शशिनायकं वै गौरीश्वरं मे शिरसा नमामि ।। शैलेशपुत्रीपतिमार्यदेवम् योगेशमार्यं सुरवर्गपूज्यम्। स्कन्दस्य नाथं गणराजसेव्यम् काशीश्वरं मे मनसा स्मरामि ।। श्रीशूलपाणिं मरुतादिमान्यम्  गंगाधरम् वैष्णवपालकम् त्वाम् । सिन्दूरवर्णम् भुजगेन्द्रहारम् नन्दीश्वरं मे शिरसा नमामि ।। श्रीरुद्ररूपम् शिवमार्षदेवम्  दैत्येशनम्यम् मनुवंशवन्द्यम् । ओङ्कारवेद्यम् मुनिधीतमेकम्  भूतेश्वरं मे मनसा स्मरामि ।। पुण्येन सेव्यम् गुणवद्भिरर्च्यम् भस्माङ्गरागं त्रिपुरान्तकम् त्वाम् । भूलोकपालं शितिकण्ठमीशम् सोमेश्वरं मे शिरसा नमामि ।। - अभिजित् ॥ अंशदायिनौ - शुभजायस्पालः, सुश्रुतः॥